________________
( १९३ )
व्यञ्जनेभ्य उपसिक्ते । ६ । ४ । ८ । तृतीयान्ताद् व्यञ्जनवाचिन उपसिक्तेऽर्थे इण् भवति । व्यञ्जनं सूरादि । सूपेनोपसिक्तः सौपिकः, तिलेनोपसिक्कं तैलिकं शाकम् ।
तरति । ६ । ४ । ९।
तृतीयान्तात् तरत्यर्थे इकण् भवति । उडुपेन तरति औडपिकः । तुम्बेन तरति, तौम्बिकः, एवं घाटिकः, दार्तिकः । ' नौद्विस्वरादिकः ' नावा तरति नाविकः । बाहुभ्यां तरति बाहुकः । चरति । ६ । ४ । ११ ।
टान्ताच्चरत्यर्थे इकण् भवति । हस्तिना चरति हास्तिकः । दध्ना चरति भक्षयति दाधिकः । ' पदिको निपात्यः पादाभ्यां चरति पदिकः ।
वेतनादेर्जीवति । ६ । ४ । १५ ।
वेतनादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकणं भवति । वेतनेन जीवति वैतनिकः पण्डितः, वादेन जीवति वादिकः, कलहेन जीवति कालहिकः । ' क्रयविक्रयादिको वाच्यः' क्रयविक्रयेण जीवति क्रयविक्रयिक आङ्ग्लदेशः, क्रयेण जीवति क्रयिका इदानींतनी भारतभूः, विक्रयेण जीवति विक्रयिकः जर्मनदेशः । ' आयुधादीयक्ष' आयुधेन जीवति आयुधीयः, आयुधिकः । निर्वृत्तेऽक्षद्यूतादेः । ६ । ४। २० ।
13