SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ (१९१) तृतीयान्तात् प्रोक्ते इत्यर्थे यथाविहितं प्रत्ययो भवति । भद्रमाहुना प्रोक्तानि वस्तूनि भाद्रबाहवानि वस्तूनि। तीर्थङ्करण प्रोक्का तैर्थङ्करी त्रिपदी । गणधरेण प्रोक्तं गाणधरं द्वादशाङ्गम् । पाणि निना प्रोक्तं पाणिनीयम्, हेमचन्द्रेण प्रोक्तं हेमचन्द्रीयम्, वृहस्प तिना प्रोक्तं वार्हस्पत्यं शास्त्रम् ।। उपज्ञाते । ६।३ । १९१। । - प्रथमतः प्रागुपदेशेन विना ज्ञातमुपज्ञातम् । उपजाते टान्ताद् यथाविहितं प्रत्ययो भवति । पाणिनिना उपज्ञातं पाणिनीयम्। श्रेयांसेनोपज्ञातं श्रेयांसीयं दानम् , जिनेन्द्रेणोपज्ञातं जैनेन्द्र च्याकरणम् । कृते । ६।३। १९२ । - तृतीयान्तात् कृतेऽर्थे यथोक्तं प्रत्ययो भवति । सिद्धसेनेन कृतः सिद्धसेनीयः स्तवः । इष्टकाभिः कृत ऐष्टकः प्रासादः । एवं माक्षिकम् । अमोऽधिकृत्य ग्रन्थे । ६।३। १९८ । द्वितीयान्तादधिकृत्य कृते ग्रन्थे यथाविहितं प्रत्ययो भवति । सुभद्रामधिकृत्य कृतो ग्रन्थः सुभद्रीयः । । .. गच्छति पथिदूते ।६।३। २०३।। - अमन्ताद् यथोक्तं प्रत्ययो भवति । गमनकर्ता चेत् पन्या दूतो वा । मथुरां गच्छति यः पन्था दूतो वा माथुरः, एवं स्रोत
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy