________________
( १९० )
- शब्दाच्चापि' जिह्वामूले भवः जिह्वामूलीयः अङ्गुलौ भवः अङ्गुलीयः मध्ये भवो मध्यीयः । ' गम्भीरपञ्चजनवहिर्देवात् ज्यो - बोध्यः गम्भीरे भवो गाम्भीयः, एवं पाञ्चजन्यः, बाह्यः, दैव्यः । तत आगते । ६ । ३ । १४९ ।
१
पञ्चम्यन्तादागतेऽर्थे यथापूर्वोक्तं प्रत्ययो भवति । कुमारपालादागतः कौमारपालः सचिवः, जिनांदागतं जैनं शासनम्, नया आगतो नादेयः, ग्रामादागतो ग्राम्यः ।
हेतुभ्यो रूप्यमय वा | ६ | ३ | १५६ | नृवाचिभ्यो हेत्वर्थाच्च तत आगतेऽर्थे रूप्यमयटौ वा भवतः । जिनदत्तादागतं जिनदत्तरूप्यम्, जिनदत्तमयम्, जिनदत्तीयं वा । एवं समरूप्यं, सममयं समीयम् ।
प्रभवति । ६ । ३ । १५७ ।
पञ्चम्यन्तात् प्रभवत्यर्थे यथोक्तं प्रत्ययो भवति । हिमवतः प्रभवति हैमवती गङ्गा, एवं काश्मीरी वितस्ता । ' त्यदादिभ्यस्तु 'प्रभवत्यर्थे मयड् वाच्यः' तस्माद प्रभवति तन्मयम् । भवन्मयी । तस्येदम् । ६ । ३ । १६० ।
षष्ठ्यन्तादिदमित्यर्थे यथोक्तं प्रत्ययो भवति । तवेदं त्वदीयम, पूर्णचन्द्रस्येदम् पूर्णचन्द्रीय सारस्वतम् उपगोरिदमौपगवम्, - नद्या इदं नादेयम् ।
तेन प्रोक्ते । ६ । ३ । १८१ ।