________________
( १८९ )
कालार्थात् सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययो भवति । शरदि उप्ताः शारदाः शालयः । हेमन्ते उप्ता हैमनाः, हैमन्ताः, हैमन्तिका यवा: 'ग्रीष्मवसन्ताभ्यां तृप्तेऽर्थे अकञ् वा वाच्यः' ग्रीको उसे ग्रैष्मकं, ग्रैष्मं वा । वसन्ते उप्तं वासन्तकं वासन्तं वा धान्यम् । व्याहरति मृगे । ६ । ३ । १२१ ।
सप्तम्यन्तात् कालार्थात् व्याहरति मृगेऽर्थे यथाभिहितं प्रत्ययो भवति । निशायां व्याहरति नैशो, नैशिको वा शृगालः । . एवं प्रादोषिकः, प्रादोषः ।
जविनि च । ६ । ३ । १२२ ।
जयः प्रसहनमम्यासः स विद्यते यस्यासौ जयी । सप्तम्यन्तात् कालवाचिनो जयिन्यर्थे भवाविहितं प्रत्ययो भवति । निशासहचरितमध्ययनमपि निशा, तस्यां नयी नैशो नैशिको वा ।
भने । ६ । ३ । १२३ ।
:
सप्तम्यन्ताट् भवेऽर्थे यथाविहितं प्रत्ययो भवति । खन्ने भवः स्रौघ्नः नद्यां भवो नादेयः, हेमन्ते भवो हैमनो हैमन्तो हैमन्तिको वा ।
"
दिमादिदेहांशाद् यः । ६ । ३ । १२४ ।
दिगादिभ्यो देहावयववाचिभ्यश्च सप्तम्यन्तेभ्यो भने यो भवति । दिशि भवो दिश्यः । मूर्ध्नि भवो मूर्धन्यः । ' वर्गान्तातु: ईयो वाच्यः कवर्गे भवः कवर्गीय: । 'जिह्वामूलाङ्गुलिभ्यां मध्य