________________
( १८८) सप्तम्यन्ताद वर्षेषु यथायोगमणादय एयणादयश्च भवन्ति । उत्से कृतो लब्धः क्रीतः संभूतो वा भौत्सः । बहिः कृतः लब्धः क्रीतः संभूतो वा बाह्यः । नद्यां कृतो रब्धः क्रीतः संभूतो वा नादेयः । एवं राष्ट्रीयः, पारीणः, दाक्षिणात्यः, ग्रैष्मः, 'प्रावृषेण्यः, नैशः, नैशिकः ।
कुशले । ६।३ । ९५ । सप्तम्यन्तात् कुशलेऽथे यथाविहितमणेयणादयश्च भवन्ति । माथुरः, नादेयः ।
जाते । ६ । ३ । ९४ । सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणेयणादयश्च भवन्ति । माथुरः, औत्सः । 'प्रावृषस्तु जातेऽये इको वाच्यः प्रावृषि जातो प्रावृषिकः।
कालाद् देये ऋणे । ६ । ३ । ११३ । सप्तम्यन्तात् कालार्थाद् देये ऋणे यथाविहितमणादयो भवन्ति । मासे देयं ऋणं मासिकम् , एवं वार्षिकम् । ___साधुपुष्यत्पच्यमाने । ६।३ । ११७।
कालविशेषवाचिनः सप्तम्यन्तात् साधौ पुष्यति पच्यमाने वार्थे यथाविहितं प्रत्ययो भवति । हेमन्ते साधु हैमन्तिकम् । वसन्ते पुष्यति वासन्ती कुन्दलता । शरदि पच्यन्ते शारदाः शालय
उते।६।३।११८।