SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ (१४७) चिरपरुत्परारेः नः । ६ । ३ । ८५। .. - एभ्यः कालार्थाच्छेषेऽर्थे लो वा भवति । चिरत्नम्, पर लम्, परारित्नम् । पूर्वाणापराह्णात् तनट् । ६ । ३ । ८७ । आभ्यां वा तनड् भवति । पूर्वाह्ने भवः पूर्वाह्नतनः अत्र 'कालात्तनतर-' इत्यादिना सप्तम्या वा लुक् पूर्वाहणेतनः । एवं अपराह्नतनः, अपराह्नतनः । सायंचिरंमाणे गेऽव्ययात् । ६ । ३ । ८८ । ' एभ्योऽययाच कालार्थाच्छेषे तनड् नित्यं स्यात् । सायं.. तनम्, चिरंतनम् , प्रागेतनम् , प्रमेसनम्, दोषातनम् , दिवातनम्, ह्यस्तनम्, श्वस्तनम्, सनातनम्, पुरातनम्, 'पुराशब्दाद नोऽपि पुराणम् । ___भर्तुसन्ध्यादेरण् । ६।३। ८९ । नक्षत्रार्थाहत्वर्थात् सन्ध्यादेश्व कालार्थाच्छेषेऽऽण् भवति । पुण्ये भवः पौषः, ग्रीप्मे भवः ग्रष्मः, सन्ध्यायां भवः सान्ध्यः, अमावास्यायां भवोऽमावास्यः । 'हेमन्तस्य तु वाऽण् , तद्योगे च तटक' हेमन्ते भवो हैमनो, हैमन्तः पक्षे हैमन्तिकः । 'प्रावृष एण्यः' प्रावृषेण्यः। तत्र कृतलब्धक्रीतसंभूते । ६ । ३ । ९४ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy