SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ( १८६ ) अमोऽन्तावोsधसः । ६ । ३ । ७४ । एम्यः शेषेऽमो भवति । अन्तमः, अवमः, अधमः । पश्चादाद्यन्ताग्रादिमः । ६ । ३ । ७५ । पश्चाद् आदि अन्त अग्र इत्येतेभ्यः शेषेऽर्थे इमो भवति । पश्चाद्भवः पश्चिमः, आदौ भव आदिमः अन्ते भवोऽन्तिमः, अग्रे भवोऽग्रिमः । मध्याद् म: । ६ । ३ । ७६ । मध्यशब्दाच्छेषेऽये मो भवति । मध्यमः । अध्यात्मादिभ्य इकण् । ६ । ३ । ७८ । एभ्यः शेषेऽथें इकण भवति । आत्मनीत्यध्यात्मं तत्र भवमाध्यात्मिकम् एवमाधिदैविकम, आधिभौतिकम् और्ध्वदेहिकम् इत्यादि । " .1 वर्षाकालेभ्यः | ६ | ३ । ८० । वर्षाशब्दात् कालविशेषवाचिनश्च शेषेऽर्थे इकण् भवति । वर्षायां भवं वार्षिकम् ; मासे भवं मासिकम, संवत्सरे भवं सांवसरिकं प्रतिक्रमणम् । 'निशाप्रदोषात् आभ्यां तु वा; निशायां 'भवं नैशं नैशिकं वा, एवं प्रादोषं प्रादोषिकम् । श्वसस्तादिः । ६ । ३ । ८४ । अस्मात् कालार्थाच्छेषे इकणू वा स्यात् स च तादिः । श्वो भवः शौवस्तिकः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy