________________
( १८४) कौलेयकः श्वा । कुक्षौ भवः कौक्षेयकोऽसिः । ग्रीवायां भवो अवेयकोऽलङ्कारः।
दक्षिणापश्चात्पुरसस्त्यण् । ६।३ । १३ । एभ्यः शेषेऽर्थे त्यण भवति । दक्षिणस्यां दिशि भवो दाक्षिणात्यः । पश्चाद् भवः पाश्चात्यः । पुरो . भवः पौरस्त्यः । 'निशब्दाद् अवेऽथे, निस्शब्दाच्च गतेऽथें त्यच् वाच्यः । नित्य ध्रुवमित्यर्थः । वणेभ्यो निर्गतो निष्ट्यश्चण्डालः ।
क्वेहामात्रतसस्त्यच् । ६ । ३ । १६ । एभ्यस्त्रतस्प्रत्ययान्तेभ्यश्च त्यच् भवति । क्व भवो जातो वा क्वत्यः । इह भवो जातो वा इहत्यः । अमा भवोऽपात्यः । तत्र भवस्तत्रत्यः । कुत आगतः कुतस्त्यः ।
ऐपमो-ह्यः-श्वसो वा । ६ । ३ । १९ । एभ्यः प्राग्जितीये शेषे त्यच् वा भवति । ऐषमस्त्यम्, ऐषमस्तनम् । ह्यस्त्यम् , ह्यस्तनम् । श्वस्त्यम् , श्वस्तनम् ।
शकलादेर्यत्रः । ६।३ । २७ । अस्माद् यान्तात् शेषेऽञ् भवति । शाकल्ये जातः शाकलः।
वृद्धेऽत्रः । ६ । ३ । २८ । वृद्धेमन्तात् शेषेऽच् भवति । दाक्षौ भवः दाक्षः ।
भवतोरिकणीयसौ । ६ । ३ । ३० ।