________________
( १८३) अथ शेषाधिकारः।
शेषे । ६ । ३।१। सोऽपत्ये' इत्यतोऽपत्यार्थमारभ्य संस्कृते भक्ष्ये। इति संस्कृतभक्ष्यार्थ यावद् येऽर्थास्तेभ्योऽन्योऽर्थः शेषः । प्रागनितीये शेषेऽर्थे इतोऽनुक्रम्यमाणं ज्ञातव्यम् ।
नद्यादेरेयण् । ६ । ३।२। भस्मात् प्रागनितीये शेषेऽर्थे एयण भवति । नद्यां भवो जातो वा नादेयः । वने भवो वानेयः । शेष इति किम्-समूहे तु नदीनां समूहो नादिकम् । 'दूरादेत्यः' दूरे भवः दूरेत्यः । 'पारायारादीनः । पारावारे भवः पारावारीणः ।
घुमागपागुदप्रतीचों यः । ६।३।८। दिवशब्दात् प्राच अपाच् उदच् प्रत्यच् इत्येतेभ्यश्चाव्ययानव्ययेभ्यः शेषेऽय यो भवति । दिवि भव दिव्यं सुखम्, पाच्यम्, अपाच्यम्, उदीच्यम्, प्रतीच्यम् । 'ग्रामशब्दात्तु एयक, ईन, यश्च प्रामे भवो ग्रामेयकः, ग्रामीणः, ग्राम्यः ।
कुलकुक्षिग्रीवाच्छ्वाऽस्यलङ्कारे।६।३ । १२॥ एभ्यो यथासंख्यं शेषेऽथें एयव. भवति । कुले जातः