SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ( १८१) प्रत्ययो भवति । व्याकरणं वेत्ति वाऽधीते ऐकायें , इति विमके पि व्याकरण अण् इति स्थिते ____ वा पदान्तात् प्रागैदौत् । ७ । ४ । ५। ... निति णिति तद्धिते परे इवोवर्णयोवृद्धिप्राप्तो सत्यां तयोरेन स्थाने यो यकारवकारौ पदान्तौ जातो ताभ्यां यकारवकाराम्यां माम् यथासंख्यमैदौती भवतः । वैयाकरणः । एवं न्यायमधीते वेत्ति का नैयायिकः । न्यायादेरिकण् । ६ । २ । ११८।... अतो वेत्त्यधीते वेत्यर्थे इकण भवति । नैयायिकः । नयासिकः । सैद्धान्तिकः । पदक्रमशिक्षामीमांसासाम्नोऽकः । ६।२ । १२६ । एभ्यो वेत्त्यधीते वेत्यर्थेऽः भवति । पदं वेत्त्यधीते वेति पदकः, एवं क्रमकः, शिक्षकः, मीमांसकः, सामकः । ___ संख्याकात् सूत्रे । ६ । २ । १२८ । संख्यावाचकात् परो यः कः तदन्तात् सूत्रार्थाद वेत्यधीते वेत्यर्थे प्रत्ययस्य लुब् भवति । अष्टकाः पाणिनीयाः । प्रोक्तात् । ६।२ । १२९। . प्रोकार्थप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुब् भवति । गोतमेन प्रोक्तं गौतमम्, गौतम वेत्त्यधीते वेति गौतमः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy