SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ( १८० ) अतश्चातुरर्थिको देशे नाम्ति इयण् भवति । काशश्रीयः । 1 आरिष्ठीयः । ऋश्यादेः कः । ६ । २ । ९४ । चातुरर्थिको देशे नाम्नि को भवति । ऋश्यकः । न्यग्रोधकः । वराहादेः कण् । ६ । २ । ९५ । चातुरर्थिको देशे नाम्नि कण् भवति । वाराहकम् | पालाशकम् । कुमुदादेरिकः | ६ | २ | ९६ । अतश्चातुरर्थिको देशे नाम्नि इको भवति । कुमुदिकम् । इक्कटिकम् | अश्वत्थादेरिकण् । ६ । २ । ९७ । अस्माद् देशे नाम्नि चातुरर्थिक इकण् भवति । आश्वस्थिकम् | कौमुदिकम् । तत्रोद्धृते पात्रेभ्यः । ६ । २ । १३८ । पात्रार्थात् सप्तम्यन्तादुद्धृतेऽर्थे यथाविहितं प्रत्यया भवन्ति । शरावे उद्धृतः शाराव ओदनः । 'सप्तम्यन्तात् स्थण्डिलशब्दात् शेते व्रतीत्यर्थे यथायोगं प्रत्ययो वाच्यः' स्थण्डिले शेते स्थाण्डिलो भिक्षुः । निर्जीवस्थानं स्थण्डिलमुच्यते । तद् वेश्यधीते । ६ । २ । ११७ । तदिति द्वितीयान्ताद् वेत्ति अधीते वेत्यर्थयोर्यथाविहितं +
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy