SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ( १७५ ) ! यो योजनाद् युद्धे । ६ । २ । ११३ । योद्धर्थात् प्रयोजनार्थाच्च प्रथमान्ताद् षष्ठ्यर्थे युद्धे यथाविहितं प्रत्ययो भवति । विद्याधरा योद्धारो यस्य युद्धस्य तद् युद्धं वैद्य, एवं सौभद्रम् | भावघञोऽस्यां णः । ६ । २ । ११४ । C भावे घञन्तात् प्रथमान्तादस्यामित्यर्थे णो भवति । प्रकृष्टः पातो यस्यां सा प्रपाता तिथिः । ' श्येनपातातैलंपातेति तु निपात्यौ' श्येनानां पातो यस्यां तिथौ क्रियायां भूमौ क्रीडायां वा सा श्येनपातातिथिः भूमिः क्रिया क्रीडा वा, एवं तैलम्पाता । प्रहरणात् क्रीडायां णः । ६ । २ । ११६ । प्रथमान्तात् प्रहरणार्थादस्यामिति क्रीडायां णो भवति । दण्डः प्रहरणं यस्यां क्रीडायां सा दाण्डा क्रिया । "" विकारे । ६ । २ । ३० । षष्ठ्यन्ताद् विकारे यथाविहितं प्रत्ययो भवति । सुवर्णस्य विकारः सौवर्णमङ्गुलीयम् । अश्मनां विकार आश्मनः, आश्मः प्राण्यौषधिवृक्षेभ्योऽवयवे च । ६ । २ । ३१ । / षष्ठ्यन्तेभ्यः प्राणिवाचिभ्य औषधिवाचिभ्यो वृक्षवाचिभ्यश्च विकारेऽवयवे चार्थे यथाविहितं प्रत्ययो भवति । कपोतस्य विकाsarat वा कापोतं सक्थि मांसं वा । दूर्वाया विकारोऽवयवो वा भस्म काण्डं वा । एवं बैल्वम् |
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy