SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ (१७४.) मानुण्यकम् । राजकम् । राजन्यकम् । राजपुत्रकम् । 'केदारात् .ण्योऽकनिकणौ च वाच्यौ' कैदाय,कैदारकम् , कैदारिकम् । 'कवचिहस्तिभ्यामचित्तवाचिनश्चकण वाच्यः । कावचिकम् । हास्तिकम् । अपूपानां समूह आपूपिकम् । शाष्कुलिकम् । 'अनन्पूर्वाद धेनो रिकण् वक्तव्यः धेनूनां समूह;- धेनु+इकण् इति स्थिते । ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक्।७।४।७१ ऋवर्णोवर्णान्ताभ्यां दोस इसुसन्ताभ्यां शश्वदकरमावर्जात् तान्ताभ्यां च परस्येकस्थस्येतो लुग भवति । धेनुकम् । ब्राह्मणमाणववाडवाद् यः । ६ । २ । १६ । - एभ्यः समूहे यो भवति । ब्राह्मणानां समूहो ब्राह्मण्यम् । एवं माणव्यं, वाडव्यम्। 'गणिकाया ण्यो वाच्यः' गणिकानां समूहो गाणिक्यम् । 'पाशादिशब्दाद् गवादेश्च ल्यो वक्तव्यः पाशानां समूहः पाश्या, तृणानां समूहस्तण्या, गवानां समूहो गव्या रथानां समूहो रथ्या, लकारः स्त्रीलिङ्गार्थः । .. ग्रामजनबन्धुगजसहायात् तल् । ६।२।२८। . एभ्यः समूहे तल् भवति । ग्रामता । जनता । बन्धुता । गजता । सहायता । 'गोरथवाताद् यथासंख्यं बल्कटयलूलं वाच्यम्' गवां समूहः गोत्रा, रथकट्या, वातूलः । 'वादीनामञ् वाच्यः 'शूनां समूहः शौवम् , अह्नां समूहः आह्नम् । 'पशुशब्दात् तु ड्वण वक्तव्यः पशूनां समूहः पार्श्वम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy