________________
मास्यस्य स आश्वत्थिकः। चैत्री पौर्णमास्यस्य स चैत्रः, चैत्रिको -मासोऽर्धमासो वा। एवं कार्तिकः, कार्तिकिकः । फाल्गुना, - फाल्गुनिकः । श्रावणः, श्रावणिकः ।
देवता । ६।२।१०१। देवतार्थात् प्रथमान्तात् षष्ठयथें यथाविहितं प्रत्ययो भवति । निनो देवताऽस्यासौ जैनः । शिवो देवताऽस्यासौ शैवः । एवं बौद्धः । श्रीदेवताऽस्य श्रायम् । 'शुक्रात् तु इयो वाच्यः' शुक्रो देवताऽस्य शुक्रियं हविः । 'शतरुद्रात्तु इय ईयश्च नित्यं, महेन्द्रातु वा वाच्यो' शतरुद्रो देवताऽस्य शतरुद्रियं, शतरुद्रीयं हविः, . महेन्द्रो देवताऽस्य महेन्द्रीयं माहेन्द्रम् ।
षष्ठयाः समूहे । ६ ।२।९। षष्ठयन्तात् समूहेऽर्थे यथाविहितं प्रत्ययो भवति । चषानां समूहः चाषम् । बकानां समूहो बाकम् । स्त्रीणां समूहः स्त्रैणम् । गवां समूहो गन्यम् । मिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्मिणम् । गोत्रोक्षवत्सोष्ट्रटद्धाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ्
।६।२।१२। गोत्रप्रत्ययान्तादुक्षादेश्च षष्ठ्यन्तात् समूहेऽकन् भवति । गर्माणां समूहो गार्गकम् । औपगवानां समूह औपगवकम् । औत कम् । वात्सकम् । औष्ट्रकम् । वार्द्धकम् । आजकम् । औरभ्रकम् ।