SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ रागाही रक्ते ।६।२।१। रज्यतेऽनेनेति रागः कुसुम्भादिः, तस्माद् रागविशेषवाचिनस्तृतीयान्ताद्रक्तमित्यर्थे यथाविहितं प्रत्यया भवन्ति । कषायेण रक्तं वस्त्रं काषायम् । मनिष्ठेन रक्तं माञ्जिष्ठम् । कुसुम्भेन रक्तं कसुम्मम् । लाक्षारोचनादिकणू । ६ । २ । २ । तृतीयान्ताभ्यामाभ्यां रक्तमित्यर्थे इकण भवति । लाक्षया रक्त लाक्षिकं वस्त्रम् । रोचनेन रक्तं रौचनिकम् । - नीलपीतादकम् । ६।२।४ । तृतीयान्ताभ्यामाभ्यां रक्तमित्यर्थे यथासंख्यमको भवतः । नीलेन रक्तं नीलम् । पीतेन रक्तं पीतकम् । उदितगुरोर्भाद् युक्तेऽब्दे । ६ । २।५। उदितो गुरुर्वृहस्पतिर्यस्मिन् नक्षत्रे तदर्थादू टान्ताद् युक्तेऽ ब्दरूपेऽर्थे यथाविहितं प्रत्ययो भवति । उदितगुरुणा पुष्येण युक्तं वर्ष पौषं वर्षम् । - चन्द्रयुक्तात् काले लुप् त्वप्रयुक्ते । ६ । २।६। ....चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद्. टाप्रत्ययान्ताद् युक्ते काले थे। यथाविहितः प्रत्ययो भवति । चन्द्रयुक्तेन, पुष्येण नक्षत्रेण युक्तः महः पौषमहः । पौषी रात्री. मात्र दिनम् ।. माघी रात्रिः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy