SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ( १.७०.) मृग्वतिरस्कृत्सवशिष्ठगोतमात्रेः। ६ । १ । १२८ । एभ्यो बहुगोत्रार्थस्य प्रत्ययस्य लुब् भवति, न तु स्त्रियाम् । भृगूणामपत्यानि भगवः । अङ्गिरसः । कुत्साः। वशिष्ठाः । गोतमाः । अत्रयः ।। ___ यूनि लुप् । ६ । १ । १३७। यून्युत्पन्नप्रत्ययस्य प्राग् नितीयेऽर्थे स्वरादौ प्रत्यये विषयभूते लुब् भवति, लुपि सत्यां यः प्राप्नोति स भवेद् । पाण्टाहृतस्यापत्यं पाण्टाहृतिः, तस्य युवापत्यं पाण्टाहृतः, तस्य च्छात्रा इति प्रागनितीयेऽर्थे स्वरादौ प्रत्यये चिकीर्षिते णप्रत्ययस्य लुब जातस्ततः 'वृद्धेऽनः' इत्यनेनाञ् पाण्टाहृताः । पाण्टाहति-मिमताभ्यामपत्यमात्रे ण आयनिञ् च वक्तव्यः । राष्ट्रक्षत्रियात् सरूपाद्राजापत्ये दिरञ् । ६।१।११४ । ::. सरूपाभ्यां राष्ट्रक्षत्रियाभ्यां यथासंख्यं राजापत्येऽञ् भवति स च दिः । विदेहानां राना अपत्यं वा वैदेहो बहुत्वे तु विदेहा: राजानोऽपत्यानि वा । पुरुमगधकलिङ्गसूरमसद्विस्वरादण् । ६ । १। ११६ । • राष्ट्रक्षत्रियार्थेभ्यः सरूपेम्य एभ्यो द्विस्वरेभ्यश्चाण् भवति । पुरोरपत्यं राजा वा पौरवः । मागधः । कालिङ्गः । सौरमसः । आजः। इत्यपत्याधिकारः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy