SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ( १६५ ) लोम्नोऽपत्येषु । ६ । ११२३ । अस्मात् प्राग्जितीये बहूवपत्यार्थे अः भवति । एकत्वे द्वित्वे च बाहवादित्वादिञ् । उडुलोम्नोऽपत्यानि - उडुलोमाः । एकत्वे द्वित्वे च औडुलोमि; औडुलोमी । द्विगोरनपत्ये यस्वरादेर्लुवद्विः । ६ । १ । २४ । अपत्यार्थादन्यत्र प्रागजितीयेऽर्थे विहितस्य द्विगोः परस्य यकारादेः स्वरादेश्व प्रत्ययस्य लुब् भवति, न तु द्विः । द्वयो रथयोवढा द्विरथः ' रथादू सादेश्व वोद्रङ्गे' इति यः । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः । द्विगोरितिकिम् - पूर्वस्यां शालायां मवःपौर्वशाल: । यस्वरादेरिति किम् - पञ्चम्यो गोभ्य आगतं पञ्चगुमयम् । न प्राग्जितीये स्वरे । ६ । १ । १३५ । गोत्रे उत्पन्नस्य प्रत्ययस्य बहुवचनेषु या हुन् वक्ष्यते सा प्राजितीयेऽर्थे यः स्वरादितद्धितो विधीयते तस्मिन् विषये न भवति । गर्गाणां छात्रा गार्गीयाः । वात्सीयाः । तद्धितयस्वरेऽनाति । २ । ४ । ९२ । व्यब्जनात् परस्यापत्यप्रत्ययसम्बन्धिनो यकारस्य तद्धि यका-रादावाकारवर्जस्वरादौ च प्रत्यये परे लुग् भवति । गायें साधुगर्ग्यः । गर्गाणां समूहो गार्गकम् । यस्वर इति किम्- गार्ग्या दामतं मार्ग्यमयम् । अनातीति किम् - गार्ग्यायणः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy