________________
(१६४) धनादेः पत्युः । ६।१।१४।। धनादिगणपठिताच्छब्दात् परो यः पतिशब्दस्तदन्तात प्राजितीयेऽर्थेऽन् भवति । धनपतेरपत्यं तत्र भवो वा धानपतः । अश्वपतेः आश्वपतः ।
अनिदम्यणपवादे च दित्यदित्यादित्ययम
पत्युत्तरपदा ज्यः । ६।१।१५। दित्यादिशब्दात् पत्युत्तरपदाच्चेदमर्थवर्जिते प्राजितीयेऽर्थेऽपस्माद्यर्थस्पे शेऽणोऽपवादस्तद्विषये च ब्यः भवति । दितेरपल्य दैत्यः । अदितेरपत्यमादित्यः । आदित्यो देवता यस्य तद् आदित्ययम् । यमस्वापत्वं याम्यः। वृहस्पतिर्देवताऽस्य वार्हस्पत्यम् । इदमर्थवर्जनाद् आदित्यस्येदम्-आदितीयं मण्डलम् ।
___ कल्यग्नेरेयण् । ६।१।१७ ।
आभ्यां प्राजितीये एयण् भवति । कलिदेवताऽस्य तत् 'कालेयम् । आग्नेयम् ।
उत्सादेर । ६ । १ । १९ । अस्मात् प्राग्जितीयेऽनिदम्यणपवादे चाञ् भवति । उत्सस्यापत्यम्-औन्सः । तरुण्या अपत्यम्-तारुणः ।
- अ स्थाम्नः । ६।१।२२ । स्थाम्नः प्रागजितीये अः भवति । अश्वत्थामः ।