SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सति । गायव गोषणच गाग्यौं । तम्मात्रभेद इति किम्गार्यवास्यायनौ । पुरुषः खिया । ३ । १ । १२६ । पुरुषशब्दः प्राणिनि पुंसि वर्तते । रूढस्त्रीवाचिना सहोक्तो पुरुष एकः शिष्यते, तन्मात्रभेदे । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । 'क्लीव नामाक्लीबेन सहोतावेकं शिष्यते तन्मात्रभेदे, तच शिष्टमेकार्थ वा भवति' शुक्लं च शुक्लश्च शुक्ले वा। विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः ।३।१। १३० । ___ द्रव्यं गुणक्रियांवत् । विरोधिवाचिनामद्रव्यांणां स्वजातीयैरेवारब्धो द्वन्द्व एकार्थो वा भवति । सुखं च दुःखं च सुखदुःखे सुखदुःखं वा । प्राणितूर्याङ्गाणाम् । ३ । १ । १३७ । प्राणितूर्ययोरङ्गार्थानां स्वजातीयारब्धो द्वन्द्व एकार्थों नित्यं भवति । कर्णनासिकम् । मार्दगिकपाणविकम् । सेनाङ्गवाचिनां क्षुद्रजन्तुवाचिनां च स्वैर्द्वन्द्व एकार्थो नित्यं भवति । रथाश्चाश्वाश्च स्थाश्वम् , यूकालिक्षम् । 'येषामध्येतृणां निकटः पाठस्तेषां स्वैर्द्वन्द्व एकार्थः स्यात् , पदकक्रमकम् । 'जातिवैराणामपि' अहिनकुलम् । यतिब्राह्मणम् । पाच्यशूद्रस्य ।३।१।१४३ । यैर्मुक्ते पात्रं संस्कारेण शुध्यति ते शूद्राः, पात्रमहन्तीति
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy