________________
(१५१)
घटं कुचैन्द्रो द्वर्थी मैत्रशब्दोऽर्थः चकारेण तु
लक्ष्यतेऽयमर्थः ।
समानानामर्थेनैकः शेषः । ३ । १ । ११८ ।
समानार्थानां शब्दानां सहोत्तौ गम्यमानायामेकः शिष्यते ऽ-र्थादन्ये लुप्यन्ते । वक्रश्च कुटिलश्व वक्रौ कुटिलो वा । अ समानानामिति किम् - प्लक्षन्यग्रोधौ । सहोक्ताविति किम् - वक्रध कुटिलश्च दृश्यः ।
स्यादावसंख्येयः । ३ । १ । ११९ ।
।
सर्वस्यां स्यादौ विभक्तौ तुल्यरूपाणां सहोकौ गम्यमाना यामेकः शिष्यते, संख्येयवाचि शब्दरूपं वर्जयित्वा । अक्षश्च शकटः, अक्षश्च देवनः, अक्षश्च विभीतक इति अक्षाः । एवं घटाः पटा देवा इत्यादयः । 'त्यदादिभिरन्येन सहोत्तौ त्यदादिरेवैकः शिष्यते सच चैत्रश्व तौ । 'भ्रात्रर्थस्य स्वस्रर्थेन सहोत्तौ भ्रात्रर्य एकः शिष्यते " 'पुत्रार्थस्य दुहित्रर्थेन सहोत्तौ पुत्रार्थश्चैकः शिष्यते' भ्राता च स्वसा च भ्रातरौ पुत्रश्च दुहिता च पुत्रौ । 'मातृशब्देन सहोत्तौ पितृशब्द एको वा शिष्यते' माता च पिता च पितरौ मातापितरौ वा ।
,
वृद्धो यूना तन्मात्रभेदे । ३ । १ । १२४ ।
वृद्धप्रत्ययान्तस्य युवप्रत्ययान्तेन सहोकौ वृद्धप्रत्ययान्त एकः शिष्यते तन्मात्रभेदे एव न तु प्रकृतिभेदेऽर्थभेदे वाऽन्यस्मिन् भेदे