________________
(१९०),
अथ द्वन्द्वसमासप्रकरणम्।...
चार्थे द्वन्द्वः सहोक्तौ । ३।१।११७ ॥
चार्थे वर्तमानं नाम नाम्ना सह सहोक्तिविषये समस्यते, स च समासो द्वन्द्वसनो भवति । समुच्चयान्वाचयेतरेतरसमाहारभेदात् चतुर्विधश्चार्थः । अनेकस्य क्रियाकारकादेरेकस्मिन्नर्थे तुल्यबलतया दौकनं समुच्चयः । यथा विप्रः पठति पचति च, चैत्रो मैत्रश्च पठति । गुणप्रधानभावमात्रविशेषः ‘समुच्चय एवान्वाचयो यथा हे बटो भिक्षामट, गां चानय । समुच्चयान्वाचयरूपे चार्थेऽन्योन्यापेक्षाभावाद् न भवति समासः । द्वयोस्तु इतरेतरसमाहारयोर्भवति । अन्योन्यसापेक्षाणामेव द्रव्याणामुद्भूतावयवभेदसमूह इतरेतरयोगः । अजयपालश्च विजयपालश्च जीवादिपदार्थ जानीत इति अजयपालविजयपालौ जीवादिपदार्थ जानीतः । धवश्च प्लक्षश्च धवलक्षौ, धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः; अत्रावयवानामुद्भूतत्वात् तन्निबन्धनं द्वित्वं बहुत्वं च भवति ।न्यग्भूतावयवभेदः समूहः समाहारः । धवश्च खदिरश्चानयोः समाहारः धवखदिरम्, घवश्च पलाशश्च न्यग्रोधश्चैषां समाहारः धवखदिरन्यग्रोधम् । अत्रावयवानां न्यग्भूतत्वात् समुदायस्य च प्राधान्यात् तस्यैकत्वाच्चैकवचनम्। पदैः प्रत्येकं पदार्थानां युगपदभिधानं सहोक्तिः । चैत्रमैत्रौ