________________
(१४३) क्यङ्-मानि-पित्तद्धिते । ३।२।५०। क्यङ्प्रत्यये मानिनि चोत्तरपदे परे पित्तद्धिते च परत: स्त्री पुंवत् स्याद् , अनूङ् । श्येनी इवाचरति-श्येतायते, एनीवाचरतिएतायते । दर्शनीयां मन्यते-दर्शनीयमानी अयमस्याः । दर्शनीयकल्पा । अजथ्यं यूथम् ।
. नाप्पियादौ । ३।२।५३ । पूरण्यप्प्रत्ययान्ते स्त्रयेकार्थे उत्तरपदे प्रियादौ च पुंवद्भावो न भवति । कल्याणी पञ्चमी यासु ताः कल्याणीपञ्चमा रात्रयः। कल्याणीप्रिया यस्य स कल्याणीप्रियः । एवं प्रियासुभगः, भव्याप्रियः । प्रिया, भक्ति, मनोज्ञा, सुभगा, दुर्भगा, क्षान्ता, कल्याणी, 'चपला, सचिवा, समा, वामा, कान्ता, बाला, तनया, दुहित, स्वस इत्यादिप्रियादयः।
तद्धिताककोपान्त्यपूरण्याख्याः ।३।२।५४।
तद्धितप्रत्ययस्याकप्रत्ययस्य च यः कः स उपान्स्यो यासां ताः पूरणप्रत्ययान्ताः सज्ञाश्च परतः स्त्री पुंवद् न भवति । मद्रिका भार्या यस्य स मद्रिकामायः। लाक्षिकाभार्यः। अककारिका भार्या यस्य स कारिकामायः, हारिकामार्यः। पूरणीद्वितीया भार्या यस्य स द्वितीयभार्यः, पञ्चमीभार्यः। आख्यादत्ता भार्या यस्य स दत्ताभार्यः । तद्धिताकविशेषणं किम्, पाका मार्या यस्य स पाकभार्यः ।
स्वाङ्गाद कीर्जातिश्चामानिनि । ३।२। ५६ ।