________________
(१४४)
स्वाङ्गाद विहितो यो ङोस्तदन्तो जातिवाची च परतः स्त्री पुंवद् न भवति, मानिनि परे न । दीर्घकेशी भार्या यस्य स दीर्घकेशीभार्यः । एवं चन्द्रमुखीभार्यः। जातिः- ब्राह्मणी भार्या यस्य स ब्राह्मणीभार्यः । अमानिनीति किम् , दीर्घकेशमानिनी । कठमानिनी इत्यादि। तद्धितः स्वरवृद्धिहेतुररक्तविकारे । ३।२।५५ ।
स्वरस्थानाया वृद्धेहेतुभूतो रक्तविकाराच्चान्यत्रार्थे विहितो यस्तद्धितस्तदन्तः परतः स्त्री पुंवद् न भवति । मैथिली भार्या यस्य स मैथिलीभार्यः । एवं माथुरीमार्यः । वैदर्भीभार्यः । तद्धित इति किम् , कुम्भकारी मार्या यस्य स कुम्भकारभार्यः । वृद्धिहेतुरिति किम्, शोभनतरा भार्या यस्य स शोभनतरभार्यः । अन्ये तु वृद्धिहेत्वोस्तद्धितप्रत्यययोः ब्णितोरेव प्रतिषेधमिच्छन्ति, तन्मते वैयाकरणीमार्यः इत्यादिर्भवति । अरक्तेति किम् , कषायेण रक्ता काषायी, काषायी वृहतिका यस्य स काषायवृहतिकः, लोहस्य विकारो लौही, सा ईषा यस्य स लौहेषः ।
इति तत्पुरुषसमासपकरणम् ।