SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ (१४२) कोः कत् तत्पुरुषे । ३।२।१३० । स्वरादावुत्तरपदे परे तत्पुरुषसमासे कुशब्दस्य कदादेशः स्यात् । कुत्सितमन्नम्-कदन्नम् । कदश्वः । रथ-चदे । ३ । २ । १३१ । कुशब्दस्य रथे वदे चोत्तरपदे कदादेशः स्यात् । कद्रयः । कद्वदः । काऽक्ष-पथोः । ३।२।१३४ । कुशब्दस्य कादेशः स्यादनयोः परयोः । काक्षः । कापथः । 'पुरुषे वा' कापुरुषः, कुपुरुषः । 'अल्पार्थस्यापि कोः काऽऽदेश कामधुरम् अल्पमधुरमित्यर्थः । का-कवौ वोष्णे । ३।२।१३७। - उष्णे उत्तरपदे का-कवौ वाऽऽदेशौ स्याताम्। ईषदुष्णम्कोष्णम्, कवोष्णम् । पक्षे यथाप्राप्तमिति तत्पुरुषे कदुष्णम्। . बहुव्रीहौ कूष्णः। परतः स्त्री पुंवत् स्येकार्थेऽनूङ् । ३ । २ । ४९ । अन्यतो विशेष्यवशात् स्त्रीलिङ्गः स्त्रियां वर्तमाने तुल्याधिकरणे उत्तरपदे परे पुंवत् स्यात् । न तूङन्तः। दर्शनीया भार्या यस्य स दर्शनीयभार्यः । पट्वी भार्या यस्य स पटुभार्यः । परतः स्त्रीत्यादि किम् , गङ्गाभार्यः, गृहिणीनेत्रः । अनूङिति किम् , ब्रह्मबन्धूमार्यः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy