SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ नाकः । न विद्यन्ते नाः श्रियः छन्दांसि वा यस्येति नग्नः । न गच्छतीति नगः । न अगः नागः । एवं नमेरुः, ननान्दा, नभागः, नान्तरीयः । नवाद इत्यादयः ।। अन् स्वरे । ३ । २ । १२९ । . स्वरादावुत्तरपदे परे ननित्यस्य अनित्यादेशः स्यात् । न विद्यते अन्तो यस्येति अनन्तः । न अश्वः-अनश्वः । ने अज:अनजः। ' इति नन्समासप्रकरणम् । . विशेषणं विशेष्येणैकार्थ कर्मधारयश्च । ३ । १।९६ । भेदकं विशेषणं, भेद्यं विशेष्यम् । भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नथें वृत्तिरैकार्थ्यं सामानाधिकरण्यम् । विशेषणवाचि नाम विशेष्यवाचिना समानाधिकरणेन नाम्ना सह समस्यते, स च समासस्तत्पुरुषसज्ञः सन् कर्मधारयसब्ज्ञः स्यात् । नीलं च तदुत्पलं चेति नीलोत्पलम् । रक्तं च तत् कमलं च रक्तकमलम् । कृष्णा चासौ शाटी च कृष्णशाटी । पुमांश्चासौ गौश्च पुङ्गवः । विशेषणमिति किम् ,तक्षकः सर्पः । विशेष्येणेति किम्, लोहितः तक्षकः । विशेषण-विशेष्ययोः सम्बन्धिशब्दत्वेनैकतरो. पादानेनैव सिद्धे उभयोरुपादानं परस्परव्यवच्छेद्यव्यवच्छेदकत्वे समासो यथा स्यात् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy