SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ( १४० ) उपमानं सामान्यैः । ३ । १ । १०१ । उपमीयतेऽनेनेत्युपमानम् । उपमानवाचि नामैकार्थी सामान्य- वाचिभिरेव नामभिः समस्यते स च तत्पुरुषः सन् कर्मधारयः - स्यात् । उपमानोपमेयो भयगतसाधारणधर्मः सामान्यम् । शस्त्रीव शस्त्री, शस्त्री चासौ श्यामा च शस्त्रीश्यामा । घनश्यामः । उपमानमिति किम्, देवदत्तः श्यामा | सामान्यैरिति किम्, पर्वता इव बलाहकाः । उपमेयं व्याघ्राद्यैः साम्यानुक्तौ । ३ । १ । १०२ । उपमेयवाचि नाम सामर्थ्यादुपमानवाचिभिर्व्याघ्रादिभिः सह समस्यते स च तत्पुरुष कर्मधारयसञ्ज्ञः स्यात् । न चोपमानोपमेययोः साधारणधर्मवाची शब्दः प्रयुज्यते । व्याघ्र इव व्याघ्रः, पुरुषश्चासौ व्याघ्रश्च पुरुषव्याघ्रः । पुरुषसिंहः । साम्यानुक्ताविति किम, पुरुषो व्याघ्र इव शूरः । पुंवत् कर्मधारये । ३ । २ । ५७। 1 उन्तवर्जा परतः स्त्री कर्मधारये समासे रूयेकार्थे उत्तरपदे परे पुंवद् भवति । प्रतिषेधनिवृत्त्यर्थमिदम् । कल्याणी चासौ प्रिया चकल्याणप्रिया । मद्रिका चासौ भार्या च मद्रकभार्या । माथुरवृन्दारिका । चन्द्रमुखभार्या । ङस्युक्तं कृता । ३ । १ । ४९ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy