SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ( १३८ ) प्राधान्यं तु विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेय उत्तरपदगतो नञ् ॥ २ ॥ अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽयं क्रियया सह यत्र नञ् ॥ ३ ॥ न मनुष्यः - अमनुष्यः, न सूर्य पश्यन्तीति - असूर्यम्पश्या राजदाराः । पुनरपि तत्सदृश- तद्विरुद्ध-तदन्य- तदभावभेदात् स नञ् चतुर्धा । न ब्राह्मणः अब्राह्मण: ब्राह्मणसदृश इत्यर्थः । न धर्मोऽधर्मः तद्विरुद्ध इत्यर्थः । न वायुः अवायुः वायुभिन्नः पदार्थ इत्यर्थः । न वचनमवचनं वचनाभाव इत्यर्थः । प्रथमत्रयाणां पर्युदासे चतुर्थस्य प्रसज्ये चान्तर्भावः । नञत् । ३ । २ । १२५ । नञशब्दस्य स्थाने अकारादेशः स्यादुत्तरपदे परे । अब्राह्मणः | अहिंसा । असत्यम् । अस्तेयम् । नखादयः । ३ । २ । १२८ । नखादयः शब्दा अकृतनञकारादेशा निपात्यन्ते । नास्य खं विद्यते इति नखः । न भ्राजत इति नम्राट् । न पातीति नपात् । न विदन्तीति नवेदाः । सत्सु साधुः सत्यः, न सत्यः असत्यः, न असत्यः नासत्यः । न मुञ्चतीति नमुचिः । नास्य कुलमस्तीति नकुलः । न पुमान् न स्त्रीति नपुंसकः । न क्षरति क्षीयते वेति नक्षत्रम् । न क्रामतीति नः । नास्मिन् अकं दुःखमस्तीति
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy