SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ( १३५ ) शङ्कुलया खण्ड: - शङ्कुलाखण्ड: - इत्यर्थः । किरिणा काणः - किरिकाणः । तत्कृतैरिति किम्, अक्ष्णा काणः । शकुलया कृतः खण्ड धान्येनार्थः - धान्यार्थः । चतुर्थी प्रकृत्या । ३ । १ । ७० । चतुर्थ्यन्तं विकृतिवाचि नाम प्रकृतिवाचिना नाम्ना सह मृत्तिका - घटमृ यूपाय दारु समस्यते स च समासस्तत्पुरुषः स्यात् । घटाय त्तिका । कुण्डलाय हिरण्यम् - कुण्डलहिरण्यम् । यूपदारु । हितादिभिः । ३ । १ । ७१ । चतुर्थ्यन्तं नाम हितादिभिर्नामभिः सह समस्यते । साधुभ्यो हितम् - साधुहितम् । श्राद्धाय सुखम् - श्राद्धसुखम् । श्राविकायै रक्षितम्-श्राविकारक्षितम् । भूताय बलि:- भूतबलिरित्यादिः । तदर्थार्थेन । ३ । १ । ७२ । चतुर्थ्यन्तं नाम तदर्थेन चतुर्थ्यर्थेनार्थशब्देन सह नित्यं समस्यते, स च समासस्तत्पुरुषः । वाच्यलिङ्गता । कुमारपालायेदम्-कुमारपालार्थमिदं राज्यम् । श्राद्धायेयं यवागूः - श्राद्धार्था यवागूः । उदकायायम् - उदकार्थो घटः । पञ्चमी भयाद्यैः । ३ । १ । ७३ । पञ्चम्यन्तं नाम भयाद्यैर्नामभिः सह समस्यते स च समासः तत्पुरुषः स्यात् । नरकेभ्यो भयम् - नरकभयम् । धर्मादपेतः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy