________________
(१३६) धर्मापेतः । सुखापेतः । कल्पनाप्रौढः। अधर्माद् जुगुप्सुः-अधमजुगुप्सुः । सुखपतित इत्यादिः ।
__ क्तेनासत्वे । ३।१।७४। असत्त्वे वर्तमाना या पञ्चमी तदन्तं नाम क्तप्रत्ययान्तेन नाम्ना सह समस्यते, स च तत्पुरुषः । स्तोकान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रान्मुक्तः । ' असत्त्वे उसेः । इत्यलुक्समासः । ' परःशताद्या निपातनाद् ज्ञेयाः ' शतात् परे, सहस्रात् परे, लक्षात् परे; परः शताः, परस्सहस्राः, परोलक्षा इत्यादयः ।।
षष्ठ्ययत्नाच्छेषे । ३।१। ७६ । शेषे या षष्ठी तदन्तं नाम नाम्ना सह समस्यते, न चेत् स शेषो यत्नाद् विहितः स्यात् । कर्मसज्ञायां सिद्धायां पक्षे च कर्माविवक्षायां सम्बन्धमात्रविवक्षया षष्ठ्यां सिद्धायां सत्यां या सूत्राप्यस्य कर्मसञ्ज्ञा विकल्पिता पक्षे च षष्ठी कृता -सा सर्वा षष्ठी यत्नषष्ठी, यत्नात् शेषे षष्ठी जातेति यत्नशेषषष्ठी कथ्यते । ' नाथः , ' स्मृत्यर्थदयेशः ' इत्यादिना यत्नाद् विहितः शेषः-यत्नशेष इत्यर्थः, तं यत्नशेषं वर्जयित्वा या षष्ठी तदन्तं नाम समस्यत इत्यर्थः । राज्ञः पुरुषः-राजपुरुषः । गृहस्थानां गृहम्-गृहस्थगृहम् । गवां क्षीरम्-गोक्षीरम् । अयत्नादिति किम्, मातुः स्मारकः, सर्पिषो नाथकः अत्र संम्बन्धषष्ठी, न कृदन्तर्मनिमित्ता।