SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ (१३४) तया द्वितीयान्तेन नाम्ना प्राप्ताऽऽपन्नौ समस्येते, स च समासस्तत्पुरुषसज्ञः स्यात् । तत्सन्नियोगे चानयोरन्तस्याऽकारादेशः स्यात् । जीविकां प्राप्तः प्राप्तजीविकः । जीविकामापन्नःआपन्नजीविकः । अद्वचनं स्त्रीलिङ्गार्थम् । प्राप्ताजीविका । आपबाजीविका । श्रितादित्वाच्च जीविकां प्राप्तः जीविकाप्राप्तः, जीविकामापन्नः जीविकापन्नः । द्वितीया खट्वा क्षेपे । ३ । १ । ५९ । खट्वेति द्वितीयान्तं नाम नाम्ना सह समस्यते क्षेपे गम्ये । क्षेपो निन्दा स च समासार्थः, तेन विभाषाधिकारेऽपि नित्यसमास एवायम् । खट्वारोहणं च विमार्गप्रस्थानस्योपलक्षणं तेन सर्वाविनीतशिरोमणिः खट्वारूढशब्देनोच्यते । खट्वामारूढः खट्वारूढो जाल्मः-अपथप्रस्थित इत्यर्थः। कारकं कृता ।३।१।६८। कर्तृकरणरूपं कारकं तृतीयान्तं कृदन्तेन नाम्ना सह समस्यते, स च समासस्तत्पुरुषः स्यात् । आत्मना कृतमात्मकृतम् । कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति न्यायेन नखैर्निर्भिन्नःनखनिर्भिन्नः । परशुना च्छिन्नः-परशुच्छिन्नः । ___ तृतीया तत्कृतैः। ३ । १ । ६५ । तृतीयान्तं नाम तत्कृतैर्गुणवचनैर्नामभिः सह समस्यते । तत्कृतैरिति तदर्थकृतस्तेन तृतीयान्तार्थकृतैर्गुणवचनैरिति ग्राह्यम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy