________________
( १३३ )
थाप्रत्ययरहितं यथेत्यव्युत्पन्नं नाम नाम्ना सह समस्यते पूर्व'पदार्थाभिधेये । यथावृद्धं श्राद्धान् आमन्त्रयस्व-ये ये वृद्धास्तान् इत्यर्थः । अथेति किम्, यथा चैत्रस्तथा मैत्रः । पूर्वेणैव सिद्धे - सादृश्यप्रतिषेधार्थं सूत्रम् ।
1
यावदिय । ३ । १ । ३१ ।
यावदित्यव्ययमवधारणे वर्तमानं नाम्ना सह समस्यते स च • समासो ऽव्ययीभावसन्ज्ञकः स्यात् । यावदमत्रं श्राद्धान् भोजय- यावन्त्यमत्राणि सम्भवन्ति तावतो भोजयेत्यर्थः ।
नित्यं प्रतिनाऽल्पे । ३ । १ । ३७ १
अल्पार्थे वर्तमानेन प्रतिना सह नाम समस्यते स चाव्ययी-भावः । शाकस्याल्पत्वं शाकप्रति । सूपप्रति । इत्यव्ययीभावसमासप्रकरणम् ।
अथ तत्पुरुषः ।
श्रितादिभिः । ३ । १ । ६२ ।
द्वितीयान्तं नाम श्रितादिभिर्नामभिः सह समस्यते, स च समासस्तत्पुरुषसंज्ञः स्यात् । जिनं श्रितः जिनश्रितः । संसारमतीतः संसारातीतः । नरकं पतितः नरकपतितः । पादलिप्तं गमी पादलिप्तगमी । तुहिनमत्यस्तः तुहिनात्यस्तः ।
प्राप्तापन्नौ तयाऽच्च । ३ । १ । ६३ ।