________________
(१३२) निलम्पकम् । अत्ययो नामातीतत्वं विद्यमानस्यातिक्रमः- अतीतानि शीतानि निःशीतं वर्तते । असम्प्रति- वर्तमानकाले उपभोगाभावःकम्बलस्य सम्प्रति उपभोगाभाव इति अतिकम्बलम्-कम्बलमूर्णावस्त्रं तस्यायमुपभोगकालो न भवतीत्यर्थः । पश्चात्- रथस्य पश्चादनुरथं पदातिर्याति । क्रमः-आनुपूर्वी ज्येष्ठस्य क्रमेणेति अनुज्येष्ठं गच्छन्तु भवन्तः-ज्येष्ठानुपूर्व्या गच्छन्तु इत्यर्थः । ख्यातिः-प्रथाइतिहेमचन्द्रम् इतिधर्मसूरि हेमचन्द्रस्य धर्मसूरेश्च ख्यातिरित्यर्थः । योगपद्यमेककालता चक्रेण सहककालं गदा धेहीति सचक्रम्, अत्र 'अकालेऽव्ययीभावे' इति सहशब्दस्य सादेशः । सदृग्व्रतेन सदृशमिति सव्रतम् । सम्पत्-अनुरूप आत्मभाव:- साधूनां ब्रह्मणः सम्पदिति सब्रह्म-साधूनां सम्पन्नं ब्रह्मेत्यर्थः । साकल्यमशेषता-सतृणमभ्यवहरति न किञ्चित् त्यतीत्यर्थः । अन्तःसमाप्तिः सपिण्डैषणमधीते पिण्डैषणापर्यन्तमधीत इत्यर्थः । योग्यता-चीप्सा-नतिवृत्ति-सादृश्ये। ३ । १। ४० ।
एष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सह समस्यते, सच समासोऽव्ययीभावसञ्जकः स्यात् । योग्यता- रूपस्य योग्यमनुरूपं चेष्टते । वीप्सा अर्थमय प्रति प्रत्यर्थम् । शक्तिमनतिक्रम्य पठतीति यथाशक्ति । शीलस्य सादृश्यम्-सशीलमनयोः समानशीलतेत्यर्थः।
यथाऽथा।३।१।४१ ।