________________
(१३१) विभक्त्याद्यर्थेषु यदव्ययं तद् नाम्ना सहकार्ये सति पूर्वपदार्थाभिधेये नित्यं समस्यते, स समासोऽव्ययीभावसङ्घकः स्यात् । अत्र विभक्तिपदेन विभक्त्यर्थो ग्राह्यः । स्त्रीष्वधिकृत्य कथा प्रवर्तत इति वाक्येऽधिकरणरूपस्य सप्तम्या अर्थस्य द्योतकमधि अव्ययं स्त्रीनाम्ना सह समस्तम् इति 'ऐकाय इत्यनेन विभक्तेलुपि स्त्री+अघि इति स्थिते
प्रथमोक्तं प्राक् ।३।१।१४८ । इह समासप्रकरणे प्रथमान्तपदेन यदुक्तं तत्प्राक् प्रयोक्तव्यम्। 'द्वन्द्वैकत्वाव्ययीभावौ' इति लिङ्गानुशासनात् क्लीबत्वम्, ततश्च "क्लीबे' इति ह्रस्वे अधिस्त्रि । एवं कुमार्यामिति अधिकुमारि । नित्यसमासाधिकारेऽस्वपदेनैव विग्रहः, न तु समस्यमानाभ्यां पदाभ्याम् । समीपे- कुम्भस्य समीपम् अत्रापि सर्व पूर्वत् समुदितस्य तु विभक्तेः- .
अमव्ययीभावस्यातोऽपञ्चम्याः । ३।२।२। ।
अदन्तादव्ययीभावात् परस्य स्यादेरम् स्यात्, पचर्मी त्यक्त्वा । उपकुम्भम् अस्ति पश्यति वा सर्वत्राम् । 'तृतीयायां सप्तम्यां च विकल्पेन अम् कर्तव्यः' उपकुम्भेन उपकुम्भं कृतम्, उपकुम्भे उपकुम्भं निधेहि । ऋद्धराधिक्यं समृद्धिः- कुमारपालस्य समृद्धिः सुकुमारपालम् । ऋद्धेरभावो व्यृद्धि- ब्राह्मणानां व्यद्धि दुर्ब्राह्मणम् । अर्थाभावो नाम वस्तूनामभावः- लुम्पकानामभावो