________________
( १३० )
लुक् स्यात् । पूर्वं भूतः - भूतपूर्वः । राज्ञः पुरुषः- राजपुरुषः । बहुलाधिकारात् क्वचिदिवेन समासो विभक्तेरलोपश्च जीमूतस्येव इत्यादि । समासश्चतुर्धा - अव्ययीभाव तत्पुरुष द्वन्द्व-बहुव्रीहिभेदात् । अयं च प्रायोवादः - भूतपूर्वः, हन्भूः, कारभूः, आयतस्तु, विस्पष्टपटुरित्यादीनां समस्यमानत्वेऽप्यसंग्रहात् । तथाऽपरोऽपि प्रायोवाद:पूर्वपदप्रधानोऽव्ययीभावः, उत्तरपदप्रधानस्तत्पुरुषः, उभयपदप्रधानो द्वन्द्वः, अन्यपदप्रधानो बहुव्रीहिश्चेति; उन्मत्तगङ्गमित्यादावव्ययीभावेऽपि पूर्वपदप्राधान्याभावादव्ययीभावलक्षणस्याव्याप्तेरन्यपदप्रधानरूपबहुव्रीहिलक्षणस्यातिव्याप्तेश्च, एवं सूपप्रति इत्यत्रोत्तरपदार्थप्राधान्यात् तत्पुरुषलक्षणस्यातिव्याप्तिरव्ययीभावलक्षणस्याव्याप्तिश्च, अर्धपिप्पलीत्यत्र तत्पुरुषे पूर्वपदप्राधान्यादव्ययीभावलक्षणातिव्याप्तिस्तत्पुरुषलक्षणाव्याप्तिश्च, द्वित्रा इत्यादौ बहुव्रीहौ द्वयपदाथप्राधान्याद् द्वन्द्वलक्षणस्यातिव्याप्तिर्बहुव्रीहिलक्षणस्याव्याप्तिश्च शशकुशपलाशम् इत्यत्र समाहारद्वन्द्वे समाहाररूपान्यपदार्थप्राधान्याद् बहुव्रीहिलक्षणातिव्याप्तिर्द्वन्द्वलक्षणाव्याप्तिश्च । तस्मान्नैतानि अन्यT भावादीनां लक्षणानि, किन्तु - अव्ययीभावाधिकारपठितत्वमव्ययीभावत्वं तत्पुरुषाधिकारपठितत्वं तत्पुरुषत्वं, द्वन्द्वाधिकार पठितत्वं द्वन्द्वत्वं, बहुव्रीह्यधिकारपठितत्वं बहुव्रीहित्वम् । विभक्ति-समीप - समृद्धि-व्यृद्ध्यर्थाभावात्ययासम्प्रति-पश्चात् - क्रम - ख्याति - युगपत् - सदृक्- सम्पत् - साकल्यान्तेऽव्ययम् । ३ । १ । ३९ ।