SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ( १२९) अथ समासप्रकरणम्। समर्थः पदविधिः । ७ । ४ । १२२ । _____ यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो ज्ञातव्यः, विधीयत इति विधिः पदानां पदयोः पदस्य वा विधिः पदविधिः; स पुनः समासादिः समर्थः शक्तः। विग्रहवाक्यार्थाभिधाने यः शक्तः स समर्थो नाम शक्तो बोद्धव्यः । तच्च सामर्थ्यमेका भावलक्षणम्, एकार्थीभावश्च परस्परान्वयित्वेन मिलितानां पदानामेकक्रियाऽन्वयित्वरूपम् । अथवा समर्थानां सम्बद्धार्थानां परस्परं संसृष्टार्थानां पदानां विधिः समर्थपदविधिर्बोद्धव्यः । .... नाम नाम्नैकार्थे समासो बहुलम् । ३ । १ । १८ । नाम नाम्ना सह.परस्परान्वयरूपे ऐकार्थ्यरूपसामयें सति समाससंज्ञं. बहुलं स्यात् । लक्षणमधिकारश्चेदं सूत्रं तेन यत्र विशेषसन्ज्ञाऽभावः तत्रानेनैव समासविधिः । विस्पष्टं पटुः विस्पष्टपटुः इत्यादिः । नामेति किम् ,चरन्ति मावो धनमस्य । नाम्नेति किम्, चैत्र: पचति । क्वचिदनामापि, भाति अर्को यत्र तद् भात्य: नभः । क्वचिदनाम्नाऽपि अनुव्यचलत् । ऐकायें । ३।२।८।। ऐकार्यमैकपद्यमेकविभक्तिकत्वं च तन्निमित्तस्य स्यादेविभक्ते
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy