________________
(१२८) ___लद्युक्ते हेतौ । २ । २ । १०० ।
तेन व्याप्येन युक्ते तद्युक्ते हेतौ वर्तमानाद् गौणाद् नाम्नः सप्तमी स्यात् ।
चर्मणि दीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति, सीम्नि पुष्कलको हतः ॥ १॥
षष्ठी वाऽनादरे । २ । २ । १०८ । अनादरे गम्यमाने यद्भावो यस्य भावस्य लक्षणं तद्वाचिनो गौणाद नाम्नः षष्ठी वा स्यात् । राजा बहुष्वसाधुषु वदत्सु प्रात्राजीत् । बहुषु साधुषु वदत्सु स्वयमार्यो भगवान् साधुमार्गेग गतवान् । एवं बहुषु साधुषु वदत्सु अनार्योऽनार्यमार्गेण गतवान्। पक्षे बहूनां साधूनां वदतामिति षष्ठी ।
कर्ता कर्म च करणं सम्प्रदानं तथैव च ।
अपादानाधिकरणमित्याहुः कारकाणि षट् ॥१॥ द्वितीया कर्मणि ज्ञेया कर्तरि प्रथमा यदा । उक्तकर्तृप्रयोगे तु प्रथमैव प्रयुज्यते ॥२॥ यदा कर्तरि तृतीया कर्मणि प्रथमा तदा । उक्तकर्मप्रयोगे तु क्यो न स्याञ्च परस्मैपदम् ॥३॥
इति कारकप्रकरणं समाप्तम् । १ गुद-मेदान्तरालाङ्गं सीमेति प्रोच्यते बुधैः । पुष्कलको मृगभेदः स्याद् कन्योऽसौ गन्धहेतुकः ।।