SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ (१२७) श्चतुर्थी स्यात् । संयमाय श्रुतं धत्ते । धर्माय संयमम् । धर्म मोक्षाय । धनं दानाय मुक्तये वा। . .. क्रुद्-दुहेाऽसूयार्थैर्य प्रति कोपः । २।२ । २७ । क्रधाद्यर्थानां धातूनां योगे यं प्रति कोपः स सम्प्रदानसज्ञः स्यात् । चैत्राय क्रुध्यति । जिनदत्ताय द्रुह्यति । धर्मपालायर्ण्यति । पार्श्वदत्तायासूययति । अत्र सिंहावलोकनन्यायो द्रष्टव्यः । नोपसर्गात् क्रुद्-द्रुहा । २।२।२८ । उपसर्गात् पराम्यां क्रुद्-द्रुहिभ्यां योगे यं प्रति कोपस्तत् सम्प्रदानसम्झं न स्यात् । चैत्रमभिक्रुध्यति। ऋषभदत्तमभिद्रुति। गम्ययपः कर्माधारे । २।२ । ७४। प्रयोगेऽपठितस्य यबन्तस्य कर्मवाचिन आधारवाचिनश्च गौणाद् नाम्नः पञ्चमी स्यात् । प्रासादात् प्रेक्षते प्रासादमारुह्य प्रेक्षत इत्यर्थः । श्वशुराद् जिहेति श्वशुरं वीक्ष्य जिहेतीत्यर्थः । आसनात् प्रेक्षते आसने उपविश्य प्रेक्षत इत्यर्थः । तद्भद्रायुष्यक्षेमार्थार्थेनाशिषि । २ । २ । ६६ । हितार्थेश्च सुखार्थेभद्राद्यर्थैर्युक्ताद् गौणाद् नाम्न आशिषि चतुर्थी वा स्यात्। हितं जीवानां जीवेभ्यो वा भूयात्। सुखं प्रजानां प्रनाम्यो वा भूयात् । भद्रं शासनस्य शासनाय वा । आयुर्देवदत्तस्य देवदत्ताय वा भूयात् । क्षेमं कल्याणं श्राद्धानां श्राद्धेभ्यो वा भूयात् । अर्थश्चैत्रस्य चैत्राय वा भूयाद् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy