SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ( १२१ ) हेत, कस्माद् हेतोः कस्य हेतोः, कस्मिन् हेतौ वा वसति । एवं निमित्तादीनां योगेऽपि । आङाऽवधौ । २ । २ । ७० । आङा युक्तादवधिवाचिनो गौणाद् नाम्नः पञ्चमी स्यात् । आ पाटलिपुत्राद् वृष्टो मेघः पाटलिपुत्रं मर्यादीकृत्य तदभिव्याप्य वा मेघो वृष्ट इत्यर्थः । आ बालेभ्यो जिनभक्तिः । आ आङ्ग्लभूमेर्विजयधर्मसूरीणां कीर्तिः । पर्यपाभ्यां वज्यें । २ । २ । ७१ । आभ्यां युक्ताद् वर्जनीयेऽर्थे गौणाद् नाम्नः पञ्चमी स्यात् । परि त्रिगर्तेभ्यो वृष्टो मेघः, अप त्रिगर्तेभ्यो वृष्टो मेघः त्रिगर्ते मुक्त्वा वृष्ट इत्यर्थः । आख्यातर्युपयोगे । २ । २ । ७३ । आख्याता वक्ता, नियमपूर्वकविद्याध्ययनमुपयोगः, आख्यातृवाचिनो गौणाद नाम्नो नियमपूर्वक विद्याग्रहणविषये पञ्चमी स्यात् । उपाध्यायादिन्द्रविजयादधीते निधानविजयः । उपयोग इति किम् नटस्य गाथां शृणोति । तादर्थ्ये । २ । २ । ५५ । कञ्चित् पदार्थं निष्पादयितुं यत् प्रवृत्तं तत् तदर्थम्, तस्य वस्ताद सम्बन्धविशेष इत्यर्थः तस्मिन् द्योत्ये गौणाद् नाम्न
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy