________________
अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् । चौरस्य चौरं का द्विषन् ।
वैकत्र द्वयोः । २।२। ८५। .... द्विकर्मकधातोर्द्वयोः कर्मणोरेकस्मिन् षष्ठी वा स्यात् । अजाया ग्रामं नेता । अजां ग्रामं नेता। ग्रामस्याजां नेता । ग्राममजां नेता ।
क्तयोरसदाधारे । २ । २ । ९१ । सतो वर्तमानादाधाराच्चान्यत्रार्थे विहितौ यौ क्त-क्तवतू तयोः कर्मकोंः षष्ठी न स्यात् । कुलालेन घटः कृतः । कुलालो घटं कृतवान् । असदाधार इति किम् राज्ञां ज्ञातः, इदमेषां शयितमित्यादौ षष्ठयेव । 'तृप्तार्थधातूनां करणे वा षष्ठी' फलानां फलैर्वा तृप्तः।
हेत्वस्तृतीयाद्याः । २।२। ११८।। - हेतुनिमित्तं तदर्थैः शब्दैर्युक्तात् तैरेव समानाधिकरणाद् गौणाद नाम्नस्तृतीयाद्या विभक्तयः स्युः । विद्यया हेतुना, विद्यायै हेतवे, विद्याया हेतोः, विद्याया हेतोः, विद्यायां हेतौ वा वसति । एवं निमित्त-कारण-प्रयोजनादयः प्रयोक्तव्याः ।
___ सदिः सर्वाः । २।२।११९ । ___ हेत्वर्थैर्युक्तीत् तैरेव समानाधिकरणाद् गौणात् 'सर्वोदेर्नाम्नः सर्वा विभक्तयः स्युः । को हेतुः, कं हेतुम् , केन हेतुना, कस्में