________________
(११४)
कृत्याज्य वा । २।२।८८।। कृत्यप्रत्ययान्तस्य कर्तरि षष्ठी वा स्यात् । मया मम वा पूज्या विनयधर्मसूरयः।
कर्तरि । २।२।८६। कृत्प्रत्ययान्तस्य कर्तरि षष्ठी नित्यं स्यात् । भवतः शायिका । चैत्रस्य स्वापः । देवदत्तस्य भोजनम् । जिनदत्तस्य पठनम् ।
कर्मणि कृतः । २।२। ८३ । . . कृदन्तस्य सम्बन्धिनि कर्मणि गौगाद् नाम्नः षष्ठी स्यात् । तीर्थस्य कर्ता । ग्रामस्य गमनम् । ओदनस्य पाकः । तृन्नुदन्ताव्यय-क्वस्वानातृश्-शतृ-डि-णकच-खल्वर्थस्य
।२।२ । ९०। ____ तृनन्तस्योदन्तस्याव्ययस्य क्वसोरानस्यातृशः शतुर्णकचः खल्वर्यस्य च प्रत्ययस्य कर्मकोंः षष्ठी न स्यात् । वदिता जनापवादान् । शत्रून् जिष्णुः । देवार्चनं कृत्वा । ओदनं भोक्तुम् । पायं पायं पयो गच्छति । तपः तेपिवान् । प्रवचनं विद्वान् । आनेति कानशानाऽऽनशां ग्रहणम्, पटं चक्राणः । ग्राम पवमानः । ओदनं पचमानः । सूत्रमधीयन् । पटं कुर्वन् । परीषहं सासहिमुनिः । घटस्य पूरकः । सुकरो घटस्त्वया ।
द्विषो वाऽनशः । २।२।८४ ।