SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सामीश्वराधिपतिदायादसाक्षितिभूमस्तैः । २।२।९८ । एभिर्योगे गौणाद् नाम्नः षष्ठी सप्तमी च स्यात् । गवां गोषु वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, . पृथा-नाना पञ्चमी च । २ । २ । १.१.३ । आभ्यां योगे गौणाद् नाम्नः पञ्चमी तृतीया च स्यात् । पृथग् जिनदत्ताद् जिनदत्लेन वा। नाना जिनपालाद् जिनपालेन वा। विना ते तृतीया च । २।२।११५। .... विनायोगे ते द्वितीया-पन्चम्यौ तृतीया च स्यात् । विना धर्म धर्माद् धर्मेण वा कुतः सुखम् । । ऋते द्वितीया च । २ । २ । ११४ । ऋते वर्जनार्थकमव्ययम्, तदद्योगे गौणाद् नाम्नो द्वितीया फचमी च स्याताम् । ऋते पुण्यं निर्धनत्वम् । ऋते सम्यग्दर्शनज्ञान-चारित्रेभ्यो न मुक्तिः। . .. ... . . उपान्वध्याङ्-वसः । २।२।२१ । उप अनु अधि आङ् एभिर्युक्तस्य वसतेसधारः कर्मसन्ज्ञः स्यात् । उपवसति धर्मपालो ग्रामम् । एवमनुवसति, अधिवसति, आवसति । . अधेः शी-स्थाऽऽस आधारः।२।२।२०।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy