________________
(१२२)
अधिपूर्वाणां शीड्-स्थाऽऽस्धातूनामाधारः कर्म वा स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा स्वर्ग स्वर्गे वा देवः ।।
वाभिनिविशः। २।२।२२। अभिनीत्येतत्समुदायपूर्वस्य विश्वातोराधारः कर्म वा स्यात । ग्राममभिनिविशते । 'व्यवस्थितविभाषाश्रयणात् क्वचिन्न निःश्रेयसि अभिनिविशते ।
___ सहार्थे । २ । २ । ४५। सहार्थः- तुल्ययोगो विद्यमानता च, तत्र गम्यमाने गौणाद् नाम्नस्तृतीया स्यात् । पुत्रेण सहागतः पिता। शिष्येण सार्धमागतो गुरुः । नयनाभ्यां साकं श्लक्ष्णा दन्ताः । शिष्यैः सहावश्यक करोति गुरुः । दामः सम्पदानेऽधम्य आत्मने च । २।२ । १२ ।
सम्पूर्वाद् दाम्धातोरधर्म्यरूपे सम्प्रदाने वर्तमानाट् गौणाद् नाम्नस्तृतीया स्यात्, तत्संनियोगे च दाम आत्मनेपदं स्यात । दास्या सम्प्रयच्छते कामुकः । धम्र्ये तु भार्यायै सम्प्रयच्छति ।
कृतायैः ।२।२।४७। निषेधार्थककृतादिभिर्योगे गौणाद् नाम्नस्तृतीया स्यात् । कृतं तेन । अलं प्रसङ्गेन । किं गतेन । शक्तार्थवषड्नमः स्वस्तिस्वाहास्वधाभिः । २।२।६८ ।