SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अधिकरणकारकेथे वर्तमानाद् गौणाद् नाम्नः सप्तमी स्यात् । तच्च षड्विधम्- औपश्लेषिकं वैषयिकमभिव्यापकं सामीप्यक नैमित्तिकमौपचारिकं च । तत्रैकदेशमात्रसंयोग उपश्लेषस्तन भवमोपलेकिम्- मट्वायां शेते, कटे आस्ते। अनन्यत्रभावो विषयस्तस्मै प्रभवति वैषयिकम्- भुवि मनुष्याः, दिवि वैमानिकाः सन्ति । ययोराधाराधेययोः सर्वावयवसंयोगस्तदभिव्यापकम्-तिलेषु तैलम, दनि घृतम् । आधेयसन्निधिमात्रं सामीप्यकम्- गङ्गायां घोषः, वटे गावः । निमित्तमेव नैमित्तिकम् - शरदि पुष्प्यन्ति वनानि । उपचारः प्रयोजनं यस्य तदौपचारिकम्- मम मुष्टिमध्ये राजाऽस्ति, अगुल्या अग्रे करिणां शतम् । यद्भावो भावलक्षणम् । २।२।१०६ । यस्य क्रिययाऽन्या क्रिया लक्ष्यते ज्ञायते वा ततः सप्तमी स्यात् । गोषु दुह्यमानासु जिनदत्तो गतः । देवे वर्षति श्राद्धः समागतः। सप्तमी चाविभागे निर्धारणे । २।२।१०९ । जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्धया पृथक्करणं निर्धारणम्, तस्मिन् वर्तमानाद् गौणाद् नाम्नः सप्तमी वा स्याद्, अविभागे अवयवावयविनोः कथञ्चिदैक्ये शब्दाद् गम्यमाने सति। नृणां नृषु वा क्षत्रियाः शूराः । गवां गोषु वा कृष्णा बहुक्षीराः । गच्छतां गच्छत्सु वा धावनक्रियाकर्ता शीघ्रतरः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy