________________
(११९) अपायो विश्लेषो विभागो वा तत्र योऽवधिश्चलत्वेनाचलत्वेन वा विवक्षितः स अपादानसब्ज्ञकः स्याद् , अथवा सावधिकं गमनं तत्र यदवधिभूतम् अपायेनानाधिष्ठितं तस्कारकमपादानं स्यात् । प्रामादायाति । धावतोऽश्वात् पतति इति कायिकोऽपायः । बुद्धिजन्मापायः- अधर्माद् जुगुप्सते विरमति वा, धर्मात् प्रमाद्यति, चौरेभ्यो बिभेति, यवेभ्यो गां रक्षति निवारयति वा, उपाध्यायादन्तर्धत्ते ।
पञ्चम्यपादाने । २।२।६९ । ... अपादाने वर्तमानात् कारकात् पञ्चमी स्यात् । अरण्यादागच्छति । चौरम्यो रक्षति । कुण्डाद् निष्काशयति ।
__ शेषे । २ । २।०१। कर्मादिभ्योऽन्यः स्वस्वामिभावादिसम्बन्धः शेषः, तस्मिन् वर्तमानाट् गौणाद् नाम्नः षष्ठी स्यात् । राज्ञः पुरुषः । पित्रोरेतत् पूजनम् । गुरूणां वचनं पथ्यम् । कर्मादिकारकाणामपि सम्बन्धमात्रविवक्षया षष्ठी भवत्येव माषाणामश्नीयात् , सुभाषितस्य शिक्षते, सतां गतमित्यादौ सतामपि कर्मादीनामविवक्षा ।
क्रियाश्रयस्याधारोऽधिकरणम् । २।२ । ३० ।
क्रियाश्रयस्य कर्तुः कर्मणो वा य आधारः स अधिकरणसञ्जकः स्यात् ।
सप्तम्यधिकरणे । २।२।९५ ।