SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ (११७) स्वीकारविषयीभूतोऽशो- भागस्तत्पतिर्भागी, तस्मिन् लक्षणादिष्वर्थेषु च वर्तमानाद् गौणाद् नाम्नः प्रतिपर्यनुभिर्युक्ताद् द्वितीया स्यात् । यदत्र मां प्रति परि अनु स्यात् योन मम भागस्तद् दीयतामित्यर्थः । वृक्षं प्रति परि अनु विद्योतते विद्युत् । वृक्षं वृक्ष प्रति परि अनु वा सेचनम् । साधु जिनरक्षो मातरमनु प्रति परिवा। ___ कालाध्वनोाप्तौ । २ । २ । ४२ । स्वकीयसम्बन्धिना द्रव्य-गुण-क्रियारूपेण सह सम्बन्धोव्याप्तिरत्यन्तसंयोग इत्यर्थः । तस्यां द्योत्यायां कालेऽध्वनि च वर्तमानाद् गौणाद् नाम्नो द्वितीया स्यात्। मासं गुडधानाः । मासं कल्याणी । मासमधीते । क्रोशं पर्वतः । कोशं कुटिला नदी । क्रोशमधीते । हेतु-कर्तृ-करणेत्थम्भूतलक्षणे । २ । २ । ४४ । फलसाधनयोग्यः पदार्थो हेतुः, द्रव्यादिसाधारणत्वे सति निर्व्यापारसव्यापारसाधारणत्वं हेतुत्वम्, क्रियासिद्धौ प्रकृष्टोपकारकं नियतव्यापारोपबद्धं करणं क्रियामात्रविषयं व्यापारनियतं चेत्यर्थः, कञ्चित् प्रकारमापन्न इत्थम्भूतः स लक्ष्यते येनेति इत्यम्भूतलक्षणम् , हेत्वादिषु वर्तमानाद् गौणाद् नाम्नस्तृतीया स्यात् । धनेन कुलम् , व्रतेन वा । दण्डेन घटः । पुण्येन दृष्टो जिनः । वस्तुपालेन कृतं जिनमन्दिरम् । कुमारपालेन कृता अहिंसामयी मेदिनी। दात्रेण लुनाति धान्यम् । रजोहरणेन जैनमुनिः रजोहरणज्ञाप्यजैनमुनित्वविशिष्ट इत्यर्थः । ...
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy