SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ द्वित्वेऽधोऽध्युपरिभिः ।२।२। ३४ । एषां द्वित्वे सति एभियुक्ताद् गौणाद् नाम्नो द्वितीया स्यात्। अधोऽधो ग्रामं वनानि सन्ति । अध्यधि ग्रामं क्षेत्राणि । उपयुपरि श्राद्धं याचकाः पतन्ति । गौणात् समया-निकषा-हा-धिगन्तराऽन्तरेणाति-येन तेनैर्द्वितीया । २।२।३३। एभियुक्ताद् गौणाद् नाम्नो द्वितीया स्यात् । समया ग्राम क्षेत्राणि वर्तन्ते । निकषा ग्रामं जिनेन्द्रसमवसरणम् । हा जिनाभक्तं तस्य शोचत इत्यर्थः । धिग् मिथ्यादृष्टिम् । अन्तरा निषधं नीलं च मेरुः । जिनदर्शनमन्तरेण न सम्यगवाप्तिः । अति कुरून् महद् बलं कुर्वतिक्रमेण वृद्धमित्यर्थः । येन पश्चिमां गतः । तेन पश्चिमां नीतः। लक्षण-वीप्स्येत्थम्भूतेष्वभिना । २ । २ । ३६ । लक्षणं चिह्नम्, समुदायस्यावयवशः क्रियाभिः कृत्स्नेन प्राप्तुमिच्छा वीप्सा तत्कर्म वीप्स्यम्, केनचिद् विवक्षितविशेषेण भाव इत्थम्भूतम्, एषु वर्तमानाद् गौणाद् नाम्नोऽभिना युक्ताद् द्वितीया स्यात् । वृक्षमभि विद्योतते विद्युत् । वृक्षं वृक्षमभि सिञ्चति । साधु जिनदत्तो मातरमभि । लक्षणेत्यादि किम् यदत्र ममाभिष्यात् तद् दीयताम् ।। भागिनि च प्रतिपर्यनुभिः । २।२। ३७। .
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy