________________
( ११९ )
कर्तरि तृतीयैव । हृक्रोरणिक्कर्तुर्णौ वा कर्मत्वम् । वहेरपि क्वचिद् वहति भारं तुरङ्गमः, वाहयति भारं तुरङ्गमेण ब्राह्मणः ।
कर्मणि । २ । २ । ४० ।
गौणाद् नाम्नः कर्मणि कारके द्वितीया स्यात् । आख्यातपदेनासामानाधिकरण्यं गौणत्वम् । घटं करोति । जिनेन्द्रं पश्यति । गुरुं प्रणमति । त्यादि-कृत्-तद्धित-समासादिभिरुक्ते तु कर्मणि प्रथमेव 'उक्तार्थानां नानुप्रयोगः' इति न्यायात् । घटः क्रियते । जिनेन्द्रो दृष्टः । स्नानीयं चूर्णम् । दानीयो मुनिः । गोमान् चैत्रः । शतेन क्रीतः शत्यः । नता देवेन्द्रा यं स नतदेवेन्द्र इत्यादि । नी- हरत्यादीनामुभयकर्मणां धातूनां कर्मणोः प्रधानेतरता, यस्मै क्रियाsstभ्यते तद् दुग्धादि प्रधानं कर्म, यत्तु तत्सिद्धचै क्रियया व्याप्य गवादि तद् गौणम्, गोपालो गां पयो दोग्धि । यदा पयःप्रभृत्यर्था कर्त्रादेः प्रवृत्तिरविवक्षिता तदा गवादेरेव मुख्यता । तत्र दुह्यादीनां गौणे कर्मणि कर्मप्रत्ययो भवति । गोपालकेन गौः पयो दुह्यते । गुरुणा शिष्योऽर्थमुच्यते । 'न्यादीनां धातूनां तु मुख्ये कर्मणि नीयते गौर्द्विजैर्ग्रामम् । उद्यते भारो ग्रामं चैत्रेणेत्यादयः ।
1
सर्वोभयाभिपरिणा तसा । २ । २ । ३५ ।
'तस्प्रत्ययान्तै सर्वादिभिर्युक्ताद् गौणाद् नाम्नो द्वितीया स्यात् । सर्वतो ग्रामं नदी वहति । अभितो ग्रामं नदी वहति । उभयतो ग्रामं पर्वताः । परितो जिनेन्द्रमिन्द्राः ।