________________
( ११४) विधानाद् मासमास्यते । पक्षेऽधिकरणत्वाद् मासे आस्ते इत्यादि । 'अविवक्षितकर्माणः सकर्मका अप्यकर्मकाः स्युः' मासं पचति, मास पच्यते, मासे पचतीत्यादि। गतिबोधाहारार्थ-शब्दकर्म-नित्याकर्मणामनीखाद्यदि
ह्वा-शब्दाय-क्रन्दाम् । २ । २।५। गत्याद्यर्थानां, शब्दः क्रिया येषां ते अथवा शब्दरूपं कर्म येषां ते शब्दकर्माणस्तेषामकर्मकाणां चाणिगवस्थायां यः कर्ता स णौ सति कर्मसन्जः स्याद्, न्यादि धातुं वर्जयित्वा । गच्छति मैत्रो ग्राम, गमयति मैत्रं ग्रामं चैत्रः। जानाति शिष्यो धर्म, ज्ञापयति शिष्यं धर्म गुरुः । भुङ्क्ते पुत्र ओदनं, भोजयति पुत्रमोदनं माता । जल्पति जिनदासो द्रव्यं, जल्पयति जिनदासं द्रव्यं जिनदत्तः । शृणोति जिनपालः शब्दं, श्रावयति जिनपालं शब्द धर्मपालः। नित्याकर्मक:- आस्ते कुमारपाल:, आसयति कुमारपालं हेमचन्द्रः । कालाध्वभावदेशैः सर्वेऽपि धातवः सकर्मका एवेत्यन्यापेक्षया नित्याकर्मकत्वं ज्ञेयम्। न्यादिधातूनां वर्जनाद् नयति ग्राममनां मैत्रः, नाययति ग्राममनां मैत्रेण चैत्र इत्यादौ कर्तृत्वात् तृतीयैव । प्रयोजकव्यापारेण प्रयोज्यकर्तुाप्यमानत्वात् कर्मसज्ञा सिद्धैवेति प्रयोजकव्यापारेण व्याप्यमानत्वेन कर्तुर्यदि कर्मसज्ञा तदैषामेवेति नियमार्थ आरम्भस्तेन पचत्योदनं शिवदत्तः, पाचयत्योदनं शिवदत्तेन यज्ञदत्त इत्यादौ पूर्वेणापि कर्मसञ्ज्ञाभावात्