________________
( ११३) नकर्तुः। वीति किम् पयसा ओदनं मुङ्क्ते, अत्र करणस्य मा भूत्। पुनस्तत् कर्म त्रिविधम् इष्टमनिष्टमनुभयं च । यदिच्छाविषयीभूतं सदाप्तुं क्रियामारभते तदिष्टं घटादि । यद् द्विष्टं रत् प्राप्यते तदनिष्टं विषादि विषं भक्षयति, अहिं लवयति । यत्र नेच्छा न च द्वेषस्तदनुभयं यथा ग्रामं गच्छन् तृणं स्पृशति । पुनस्तद् द्विविधं प्रधानेतरभेदात्, तच्च द्विकर्मकधातूनां ज्ञेयम् । दुहि-भिलि-रुधिप्रच्छि-चिग्-ब्रुग्-शास्वर्थेषु याचि-जयति-प्रभृतिषु च सत्सु यथा गां दोग्धि पयः, पुरोहितं गां भिक्षयते, व्रजं गामवरुणद्धि, छात्रं पन्यानं पृच्छति, वृक्षं फलान्यवचिनोति, शिष्यं धर्म ब्रूते शास्ति च, क्रुद्धं शान्ति याचते, याचिरिहानुनयार्थस्तेन भिक्ष्यर्थाद् भेद गर्गान् शतं जयति, अमृतमम्भोधि मथ्नाति, देवदत्तं शतं मुष्णाति। तथा नी-ह-वहि-कृषीणां च ग्राममजां नयति हरति बहति कर्षति वा, तन्दुलान् ओदनं पचति । 'स्मृत्यर्थदयेशां व्याप्यं वा कर्म , मातरं स्मरति, मातुः स्मरति पक्षे षष्ठी। .. कालाध्वभावदेशं वाऽकर्म चाकर्मणाम् । २ । २ । २३ ।
- कालः मुहूर्तादिरूपः, अध्वा गन्तव्यं क्षेत्रं क्रोशादिः, भावः क्रिया, देशों जनपदः, अकर्मकधातूनां योगे यः कालादिराधारःसे कर्मसम्ञो वा स्याद्, अकर्म च कर्माकर्मसंज्ञो युगपद् भवतीत्यर्थः । मासमास्ते, मास आस्यते। क्रोशं स्वपिति, क्रोशः सुप्यते । गोदोहमास्ते, गोदोह आस्यते। कुरून् आस्ते, कुरव आस्यन्ते । युगपद्