________________
(१०९) शब्दादपि डी न्तादेशश्च क्तव्यः । पल्ली । पाणिगृहीति इत्यादिशब्दा निपातनात् माधवो ज्ञेयाः। अशिशुशब्दाद बहुव्रीही अभिधी। नारी-सखी-पशू-श्वश्रूणामपि निपाक्नात् सिद्धिदिर्तन्या।
अश्वः । २।४। । अन्चन्तात् सिमका डीः स्यात् । सविता प्राग् गच्छति यस्यां सा प्राची दिग् । पश्चाद् गच्छति सा प्रतीची । एवम् उदीची । समीची । प्राची इत्यादयः।
स्वरादुतो गुणादखरोः । २।४ । ३५। स्वरात् परोऽर्थादेकवर्णमात्रव्यवहितो य उकारस्तदन्तात् खरुवर्जिताद् गुणवचनाद् नाम्नः स्त्रियां ङीर्वा स्यात् । पट्वी पटुः । मृद्वी मृदुः । तन्वी तनुः । साध्वी साधुः । स्वरादिति किम् पाण्डुर्भूमिः। उदिति किम् शुचिः गुणादिति किम आखुः। अखरोरिति किम् खरुः । उतोऽमाणिनश्चायु-रज्ज्वादिभ्य अङ् । २ । ४ । ७३।
उकारान्तादप्राणिवाचिनो मनुष्यजातिवाचिनश्च नाम्नः स्त्रि-. यामूङ् प्रत्ययः स्याद्, युशब्दान्तं रज्ज्वादिशब्दं च वर्जयित्वा । कुरूः । इक्ष्वाकः । अलावूः । कर्कन्धूः । उदिति किम विट् । युरज्ज्वादिवर्जनाद् अध्वर्युः रज्जुरित्यादौ उङ् न । युवन्शब्दात् .